(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.269. अध्यायः 269
Mahabharata - Vana Parva - Chapter Topics
द्रौपद्या स्वाभिलाषिणो जयद्रथस्य गर्हणम् ॥ 1 ॥ तथा बलात्स्ववस्त्रान्तकर्षिणस्तस्याक्षेपादधःपातनपूर्वकं स्वयमेव तद्रथारोहणम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-269-0x(2663)(26210)
सरोषरागोपहतेन वल्गुना
सरागनेत्रेण नतोन्नतभ्रुवा।
मुखेन विस्फूर्य सुवीरराष्ट्रपं
ततोऽब्रवीत्तं द्रुपदात्मजा पुनः ॥ 3-269-1(26211)
यशस्विनस्तीक्ष्णविषान्महारथा-
नभिब्रुवन्मूढ न लज्जसे कथम्।
महेन्द्रकल्पान्निरतान्स्वकर्मसु
स्तितान्समूहेष्वपि यक्षरक्षसाम् ॥ 3-269-2(26212)
न किंचिदार्याः प्रवदन्ति पापं
वनेचरंवा गृहमेधिनं वा।
तपस्विनं संपरिपूर्णविद्यं
भजन्ति चैवं सुनराः सुवीर ॥ 3-269-3(26213)
अहं तु मन्ये तव नास्ति कश्चि-
देतादृशे क्षत्रियसंनिवेशे।
यस्त्वद्य पातालमुखे पतन्तं
पाणौ गृहीत्वा प्रतिसंहरेत ॥ 3-269-4(26214)
नागं प्रमिन्नं गिरिकूटकल्प-
मुपत्यकां हैमवतीं चरन्तम्।
दण्डीव यूथादपसेधसि त्वं
यो जेतुमाशंससि धर्मराजम् ॥ 3-269-5(26215)
बाल्यात्प्रसुप्तस्य महाबलस्य
सिंहस् पक्ष्माणि मुखाल्लुनासि।
पदा समाहत्य पलायमानः
क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् ॥ 3-269-6(26216)
महाबलं घोरतरं प्रवृद्धं
जातं हरिं पर्वतकन्दरेषु।
प्रसुप्तमुग्रं प्रपदेन हंसि
यः क्रुद्धमायोत्स्यसि जिष्णुमुग्रम् ॥ 3-269-7(26217)
कृष्णोरगौ तीक्ष्णमुखौ द्विजिह्वौ
मत्तः पदा क्रामसि पुच्छदेशे।
यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां
जघन्यजाभ्यां प्रयुयुत्ससे त्वम् ॥ 3-269-8(26218)
यथा च वेणुः कदली नलो वा
फलन्त्यभावाय न भूतयेऽऽत्मनः।
तथैव मां तैः परिरक्ष्यमाणा-
मादास्यसे कर्कटकीव गर्भम् ॥ 3-269-9(26219)
जयद्रथ उवाच। 3-269-10x(2664)
जानामि कृष्णे विदितं ममैत-
द्यथाविधास्ते नरदेवपुत्राः।
न त्वेवमेतेन विभीषणेन
शक्या वयं त्रासयितुं त्वयाऽद्य ॥ 3-269-10(26220)
वयं पुनः सप्तदशेषु कृष्णे
कुलेषु सर्वेऽनवमेषु जाताः।
षड्भ्यो गुणेभ्योऽभ्यधिका विहीना
न्मन्यामहे द्रौपदी पाण्डुपुत्रान् ॥ 3-269-11(26221)
सा क्षिप्रमातिष्ठ गजं रथं वा
न वाक्यमात्रेण वयं हि शक्याः।
आशंस वा त्वं कृपणं वदन्ती
सौवीरराजस्य पुनः प्रसादम् ॥ 3-269-12(26222)
द्रौपद्युवाच। 3-269-13x(2665)
महाबला किंत्विह दुर्बलेव
सौवीरराजस्य मताऽहमस्मि।
नाहं प्रमाथादिह संप्रतीता
सौवीरराजं कृपणं वदेयम् ॥ 3-269-13(26223)
यस्या हि कृष्णौ पदवीं चरेतां
समास्थितावेकरथे समेतौ।
इन्द्रोऽपितां नापहरेत्कथंचि-
न्मनुष्यमात्रः कृपणः कुतोऽन्यः ॥ 3-269-14(26224)
यथा विकीटी परवीरघाती
निघ्नन्रथस्थो द्विषतां मनांसि।
मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा
वक्षं दहन्नग्निरिवोष्णगेषु ॥ 3-269-15(26225)
जनार्दनः सान्धकवृष्णिवीरो
महेष्वासाः केकयाश्चापि सर्वे।
एते हि सर्वे मम राजपुत्राः
प्रहृष्टरूपाः पदवीं चरेयुः ॥ 3-269-16(26226)
मौर्वीविसृष्टाः स्तनयित्नुघोषा
गाण्डीवमुक्तास्त्वतिवेगवन्तः।
हस्तं समाहत्य धनंजयस्य
भीमाः शब्दं घोरतरं नदनति ॥ 3-269-17(26227)
गाण्डीवमुक्तांश्च महाशरौघान्
पतङ्गसङ्घानिव शीघ्रवेगान्।
यदा द्रष्टास्यर्जुनं वीर्यशालिनं
तदा स्वबुद्धिं प्रतिनिन्दितासि ॥ 3-269-18(26228)
सशङ्खघोषः सतलत्रघोषो
गाण्डीवधन्वा मुहुरुद्वहंश्च।
यदा शरानर्पयिता तवोरसि
तदा मनस्ते किमिवाभविष्यत् ॥ 3-269-19(26229)
गदाहस्तं भीममभिद्रवन्तं
माद्रीपुत्रौ संपतन्तौ दिशश्च।
अमर्षजं क्रोधविषं वमन्तौ
दृष्ट्वा चिरं तापमुपैष्यसेऽधम ॥ 3-269-20(26230)
यथा वाऽहं नातिचरे कथंचि-
त्पतीन्महार्हान्मनसाऽपिजातु।
तेनाद्य सत्येन वशीकृतंत्वां
द्रष्टास्मि पार्थैः परिकृष्यमाणम् ॥ 3-269-21(26231)
न संभ्रमं गन्तुमहं हि शक्ष्ये
त्वया नृशंसेन विकृष्यमाणा।
समागताऽहं हि कुरुप्रवीरैः
पुनर्वनं काम्यकमागताऽस्मि ॥ 3-269-22(26232)
वैशम्पायन उवाच। 3-269-23x(2666)
`इत्येवमुक्तस्तु स सिन्धुनाथ-
स्तां द्रौपदीमाहविशालनेत्राम्।
आरुह्यतामाशु रथं मदीयं
मा त्वां वलाद्दौपदिकर्षयेहम्' ॥ 3-269-23(26233)
सा ताननुप्रेक्ष्य विशालनेत्रा
जिघृक्षमाणानवभर्त्सयन्ती।
प्रोवाच मा मा स्पृशतेति भीता
धौम्यं प्रचुक्रोश पुरोहितं सा ॥ 3-269-24(26234)
जग्राह तामुत्तरवस्त्रदेशे
जयद्रथस्तं समवाक्षिपत्सा।
तया समाक्षिप्ततनुः स पापः
पपात शाखीव निकृत्तमूलः ॥ 3-269-25(26235)
प्रगृह्यमाणा तु महाजवेन
मुहुर्विनिःश्वस्य च राजपुत्री।
सा मृष्यमाणा रथमारुरोह
धौम्यस्य पादावभिवाद्य कृष्णा ॥ 3-269-26(26236)
धौम्य उवाच। 3-269-27x(2667)
नेयं शक्या त्वया नेतुमविजित्य महारथान्।
धर्मं क्षत्रस् पौराणमवेक्षस्व जयद्रथ ॥ 3-269-27(26237)
क्षुद्रं कृत्वाफलंपापं त्वं प्राप्स्यसि न संशयः।
आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान् ॥ 3-269-28(26238)
वैशम्पायन उवाच। 3-269-29x(2668)
इत्युक्तवाह्रियमाणां तां राजपुत्रीं यशस्विनीम्।
अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः ॥ 3-269-29(26239)

इति श्रीमन्महाभारते अरण्यपर्वणि द्रौपदीहरणपर्वणि एकोनसप्तत्यधिकद्विशततमोऽध्यायः ॥ 269 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-269-1 रोषेण रागो रक्तिमा तेन सहितं सरोषरागं तदुपहतं च म्लानं च तेन। वल्गुना सुन्दरेण। नते स्वभावत उन्नते क्रोधेन भ्रुवौ यस्यास्तथा। विस्फूर्य फूत्कारं कृत्वा। सरोषवाचोपहितेनेति ध. पाठः ॥ 3-269-2 अभि अभिक्रम्य ब्रुवन्। स्थितानचलान्। यक्षादिभिरप्यजेयानित्यर्थः ॥ 3-269-3 भषन्ति हैवं सुनराः सुवीरेति झ. पाठः ॥ 3-269-4 क्षत्रियसंनिवेशे नृपसमाजे। पातालमुखे महागृर्ते। प्रतिसंहरेत् प्रतिषेधेत ॥ 3-269-5 उपत्यकामद्रिसमीपभूमिम्। दण्डी दणअडमात्रायुधो यूथात्समूहादपसेधसि अपकर्षसि ॥ 3-269-6 बाल्यात् मौढ्यात् पक्ष्माणि मुखोपरिस्थकेशान्। पदा समाहत्य लुनासि छिनस्ति ॥ 3-269-9 वेण्वादयः फलिता एव नश्यन्ति। कर्कटी च परिणतगर्भा नश्यतीति लोकप्रसिद्धम् ॥ 3-269-10 विभीषणेन भयप्रदर्शनेन ॥ 3-269-11 सप्तदश अष्टौ कर्माणि नवशक्त्यादयश्च नित्यं सन्ति येषु तानि सप्तदशानि. नित्ययोगे मत्वर्थीयोर्शआद्यच्। अनवमेषु अनीचेषु। षङ्गुणाः शौर्यतेजोधृतिदाक्षिण्यदानैश्वर्याणि ॥ 3-269-12 शक्याः निवारितुमिति शेषः। पुनरिति पाण्डवापराजयानन्तरम्। त्वं मत्प्रसादं आशंस प्रार्थय ॥ 3-269-13 प्रमाथात निग्रहात्। प्रतीता प्रख्याता। सभायां वस्त्रराशिप्रदानेन भगवदनुग्रहीतत्वात्। महाबलाः किंत्विह दुर्बला वा सौवीरराजस्य सुताहमस्मि। साहं प्रमादादिह संप्रभीतेति ध. पाठः ॥ 3-269-14 कृष्णौ वासुदेवारजुनौ ॥ 3-269-15 मदन्तरे मन्निमित्तम्। प्रवेष्टा प्रकर्षेण वेष्टयिष्यति। उष्णगेषु निदाधेषु ॥ 3-269-17 गाण्डीवमुक्ताः शराइति शेषः ॥ 3-269-19 अभविष्यत् भविष्यतीत्यर्थे व्यत्ययेन लृङ् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.